यो विष्णु: स तु वै रुद्रो यो रुद्र: स पितामह:।
एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहा:।।31।।
वरदा लोककर्तारो लोकनाथा: स्वयम्भुव:।
अर्धनारीश्वरास्तेे तु व्रतं तीव्रं समास्थिता:।।32।।
यथा जले जलं क्षिप्तं जलमेव तु तद् भवेत्।
रुद्रं विष्णु: प्रविष्टस्तु तथा रुद्रमयो भवेत्।।33।।
अग्निमग्नि: प्रविष्टस्तु अग्रिरेव यथा भवेत् ।
तथा विष्णुं प्रविष्टस्तु तथा रुद्रमयो भवेत्।।34।।
रुद्रमग्निमयं विद्याद् विष्णु: सोमात्मक: स्मृत:।
अग्नीषोमात्मकं चैव जगत् स्थावरजंगमम्।।35।।