तत: शखं समाधाय वदने पुष्करेक्षण:।।46।।
वायुवेगसमुद्भूतो मेघश्चन्द्रभमिवोद्गिरन्।
तत: प्रध्माप्य् तं शंखं भयमुत्पाद्य वीर्यवान्।।47।।
प्रविवेश पुरं कृष्णो बाणस्याभद्भुतकर्मण:।
तत: शंखप्रणादैश्च भेरीणां च महास्वनै:।।48।।
बाणानीकानि सहसा संनह्यन्त समन्तत:।
तत: किंकरसैन्यं तु व्यादिष्टं: समरे भयात्।।49।।
कोटिशश्चापि बहुशो दीप्तपहरणास्तदा।
तदसंख्येमेकस्थं महाभ्रघनसंनिभम्।।50।।
नीलांञ्जनचयप्रख्यमप्रमेयमथाक्षयम्।