ममास्त्र तेजसा दग्धा दिशो यास्यथ विद्रूता:।
अथांगिरास्त्रिशूलेन दीप्तेन समधावता।।36।।
आददान इव क्रोधात् कृष्ण्प्राणान् महामृधे।
त्रिशूलं तस्य दीप्तं तु चिच्छेेद परमेषुभि:।
अर्धचन्दैस्तथा तीक्ष्णैर्यमान्तकनिभोपमै:।।37।।
स्थूणाकर्णेन बाणेन दीप्ते न स महामना:।
विव्याधान्तकतुल्येन वक्षस्यंगिरसं तत:।।38।।
रुधिरौघप्लुतैर्गात्रैरंगिरा विह्वलन्निव।
विष्टब्धगात्र: सहसा पपात धरणीतले।।39।।
शेषास्ततोऽग्नाय: सर्वे चत्वांरो ब्रह्मण: सुता:।
आवाहयं स्तदा शीघ्रं बाणस्य पुरमन्तिकात्।।40।।