तेषां युद्धप्रसक्तानां संनाद: सुमहानभूत्।।26।।
तं च श्रुत्वा महानादं सिंहानामिव गर्जताम्।
अथांगिरा: स्वमपुरुषं प्रेषयामास बुद्धिमान्।।27।।
यत्र तद् वर्तते युद्धं तत्र गच्छस्व मा चिरम्।
दृष्ट्वा तत् सर्वमागच्छ इत्युक्त: प्रहितस्त्वरन्।।28।।
तथेत्युक्वात् स तद् युद्धं वर्तमानमवैक्षत।
अग्नीनां वासुदेवेन संसक्तारनां महामृधे।।29।।
ते जातवेदस: सर्वे कल्मारष: कुसुमस्तथा।
दहन: शोषणश्चैव तपनश्च महाबल:।।30।।
स्वाहाकारस्य विषये प्रख्याता: पंच वह्नय:।