श्रीभगवानुवाच
कुरुष्व वैनतेय त्वं यच्च कार्यमनन्तरम्।
त्वया विधाने विहिते करिष्याम्यहमुत्तमम्।।16।।
वैशम्पायन उवाच
एतच्छुत्वा त्वाच तु गरुडो वासुदेवस्य भाषितम्।
चक्रे मुखसहस्रं हि कामरूपी महाबल:।।17।।
गंगामुपागतम् तूर्णं वैनतेयो महाबल:।
आप्लुुत्याकाशगंगायामापीय सलिलं बहु।।18।।
प्रववर्षोपरि गतो वैनतेय: प्रतापवान्।
तेनाग्निं शमयामास बुद्धिमान् विनतात्मज:।।19।।
अग्निराहवनीयस्तु तत: शान्तिमुपागमत्।
तं दृष्ट्वाहवनीयं तु शान्तमकाशगंगया।
परमं विस्मायं गत्वां सुपर्णो वाक्यामब्रवीत्।।20।।