अथ रामोऽब्रवीद् वाक्यं कृष्णमप्रतिमं रणे।
स्वाभि: प्रभाभिर्हीना: स्म कृष्ण कस्मादपूर्ववत्।।11।।
सर्वे कनकवर्णाभा: संवृत्ता: स्म न संशय:।
किमिदं ब्रूहि नस्तत्त्वं किं मेरो: पार्श्वगा वयम्।।12।।
श्रीभगवानुवाच
मन्ये बाणस्य नगरमभ्यासस्थमरिंदम।
रक्षार्थं तस्य निर्यातो वह्निरेष स्थितो ज्वलन्।।13।।
अग्रराहवनीयस्य प्रभया स्मह समाहता:।
तेन नो वर्णवैरूप्यमिदं जातं हलायुध।।14।।
श्रीराम उवाच
यदि स्म संनिकर्षस्था यदि निष्प्रभतां गता:।
तद् विधत्स्व स्वयं बुद्धया यदत्रानन्तरं हितम्।।15।।