नारद उवाच
स्मरणं वैनतेयस्य कर्तुमर्हसि माधव।
न ह्यन्येन तदध्वानं शक्यं गन्तुं महाभुज।।91।।
आकर्णय तमध्वानं गन्तव्यमतिदुर्जयम
एकादश सहस्राणि योजनानां जनार्दन।।92।।
तदित: शोणितपुरं प्राद्युम्निर्यत्र साम्प्रतम्।
मनोजवो महावीर्यो वैनतेय: प्रतापवान्।।93।।
समाह्वयस्व गोविन्द स हि त्वां तत्र नेष्यति।
एकेन सुमुहूर्तेन बाणं संदर्शयिष्यति।।94।।
वैशम्पायन उवाच
तस्य् तद् वचनं श्रुत्वा् सस्मार गरुडं तदा।
स कृष्णपार्श्वमागम्य प्रांञ्जलिर्गरुड: स्थित:।।95।।