कुमारस्यानिरुद्धस्य तेनासक्तेन संयुगे।।86।।
बाणेन मायामास्थाय सर्पैर्नियमनं कृतम्।
उत्तिष्ठयतु भवांछीघ्रं यशसे विजयाय च।।87।।
नायं संरक्षितुं काल: प्राणांस्तात जयैषिणाम्।
प्राणै: किंचिद्गतैर्वीरो धैर्यमालम्यत तिष्ठतति।।88।।
वैशम्पायन उवाच
इत्येपवमुक्ते वचने वासुदेव: प्रतापवान्।
प्रायात्रिकान् वै सम्भारानाज्ञापयत वीर्यवान्।।89।।
ततश्चन्दनचूर्णैश्च लाजैश्चैव समन्तत:।
निर्ययौ स महाबाहु: कीर्यमाणो जनार्दन:।।90।।