यदन्यत संविधातव्यं विधानं यदुनन्दन।
तदाज्ञापय न: क्षिप्रमनिरुद्धस्य मार्गणे।।66।।
ततस्ते दीनमनस: सर्वे बाष्पाकुलेक्षणा:।
अन्योेन्यनमभ्यभाषन्त किमत: कार्यमुत्तमम्।।67।।
संदष्टौपष्ठपुटा: केचित् केचिद् बाष्पाकुलेक्षणा:।
केचिद् भ्रकुटिमास्थाय चिन्तभयन्त्यर्थसिद्धये।।68।।
एवं चिन्तयतां तेषां बह्वर्थमभिभाषितम्।
अनिरुद्ध: कुतश्चेति सम्भ्रम: सुमहानभूत्।।69।।
अन्योन्ययमभिवीक्षन्ते यादवा जातमन्यव:।
तां निशां विमनस्कातस्ते गमयेयु: कथंचन।
अनिरुद्धो हृतश्चेति पुन: पुनरिंदम।।70।।