देवतार्थं च मे यत्नो महान् दानवसंक्षये।
तेषां प्रियार्थं चरणेहन्मि दृप्तान् महाबलान्।।51।।
तत्पंरस्तन्मनाश्चस्मि तद्भक्तस्तत्प्रिये रत:।
कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम्।।52।।
अक्षुद्रा: सत्यन्तश्च नित्यं भक्ताेनुकम्पिन:।
तेभ्यो न विद्यते पापं बालिशत्वांत् प्रभाषसे।।53।।
कदाचिदिह पुंश्चल्या अनिरुद्धो हृतो भवेत्।
देवेषु समहेन्द्रेषु नैतत् कर्म विधीयते।।54।।
वैशम्पायन उवाच
एवं चिन्तयमानस्य कृष्णस्याद्भुतकर्मण:।
कृष्णस्यत वचनं श्रुत्वा ततोऽक्रूरोऽब्रवीद् वच:।।55।।
मधुरं श्लहक्ष्णया वाचा अर्थवाक्य विशारद:।