तत्र शक्रस्व क्या कृष्ण ऐरावतशिरोगत:।
निर्जितो बाहुवीर्येण त्वलया युद्धविशारद:।।46।।
तेन वैरं त्वया सार्धं कर्तव्यं नात्र संशय:।
वैरानुबन्धश्च महांसतेन कार्यस्वत्या सह।।47।।
तत्रनिरुद्धहरणं कृतं मघवता स्वमयम्।
न ह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति।।48।।
इत्येवमुक्ते वचने कृष्णो नाग इव श्वनसन्।
उवाच वचनं धीमाननाधृष्टिं महाबलम्।।49।।
सेनानीस्तात मा मैवं न देवा: क्षुद्रकर्मिण:।
नाकृतज्ञा न च क्लीबा नावलिप्ता न बालिशा:।।50।।