ततश्चारास्तु व्यादिष्टा: पार्थिवेन यशस्विना।
हया रथाश्च व्याचदिष्टा: पार्थिवेन महात्मना।
अभ्यन्तरं च मार्गध्वं बाह्यतश्च समन्तत:।।36।।
वेणुमनतं लताविष्टं तथा रैवतकं गिरिम्।
ऋक्षवन्तं गिरिं मार्गध्वंत त्वरिता हयै:।।37।।
एकैकं तत्र चोद्यानं मार्गध्वं काननानि च।
यातव्यं चापि नि:शंकमुद्यानानि समन्तत:।।38।।
हयानां च सहस्राणि रथानां चाप्यनेकश:।
आरुह्य त्वरिता: सर्वे मार्गध्वं यदुनन्दनम्।।39।।
सेनापतिरनाधृष्टिरिदं वचनमब्रवीत्।
कृष्णतमक्लिष्टकर्माणमच्युतं भीतभीतवत्।।40।।