असिलोम्नश्च हन्ता च तथा रावणनाशन:।
विभीषणस्य् भगवान् राज्यदो वालिनाशन:।।121।।
सुग्रीवराज्यदाता त्वं बलिराज्यापहारक:।
रत्नहर्ता महारत्नं समुद्रोदरसम्भवम्।।122।।
वरुणश्च भवान् ख्यातो भवांश्च सरिदुद्भव:।
भवान् खड्गधरो धन्वीं धनुर्धरवरो महान्।।123।।
दाशार्ह इति विख्यातो महाधन्वा धनु:प्रिय:।
गोविन्द इति विख्यायत उदधिस्वं च सुव्रत।।124।।
आकाशश्च तपश्चैव समुद्रमथनो भवान्।
भवान् स्वैर्गो बहुफलो भवान् स्विर्गचरो महान्।।125।।