चतुर्भुजश्चतुर्मूर्तिश्चातुर्होत्रप्रवर्तक:।
चातुराश्रम्यहोता च चतुर्नेता महाकवि:।।116।।
धनुर्धरश्चक्रधरो भवांञ्छखधरो महान्।
भावन् पूर्वेषु देहेषु ख्यातो भूमिधर: प्रभो।।117।।
लांगली मुसली चक्री देवकीतनयो भवान्।
चाणूरमथनश्चैव गोप्रिय: कंसहा भवान्।।118।।
गोवर्धनधरश्चैचव मल्लारिर्मल्लसभावन:।
मल्ल्प्रियो महामल्लो महापुरुष इत्यपि।।119।।
विप्रप्रियो विप्रहितो विप्रज्ञो विप्रभावन:।
ब्रह्मण्यश्च वरेण्यरश्च भवान् दामोदर: स्मृत:।
प्रलम्बमथनश्चैव केशिहा दानवान्तक:।।120।।