ततश्च् नारदं दृष्ट्वा सोऽभिवाद्य महाबल:।
प्रहृष्टमानसो भूत्वा युद्धार्थमभिवर्तत।।96।।
ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम्।
सहसैवोत्थित: शूरस्तो त्रार्दित इव द्विप:।।97।।
तमापतन्तं सम्प्रेक्ष्य् संदष्टौष्ठंं महाभुजम्।
प्रासादच्चाणवरोहन्तं भयार्ता विप्रदुद्रुव:।।98।।
अन्त: पुरद्वारगतं परिघं गृह्य चातुलम्।
वधाय तेषां चिक्षेप नानायुद्धविशारद:।। 99।।
ते सर्वे बाणवर्षैश्च गदाभिर्मुसलैस्तथा।
असिभि: शक्तिभि: शूलैर्निजघ्नू रणगोचरे।।100।।