निष्प्रयत्नगतिश्चापि सर्पवक्त्रमयै: शरै:।।176।।
न विव्यथे स भूतात्मा सर्वत: परिवेष्टित:।
ततस्तं वाग्भिरुग्राभि: संरब्ध: समतर्जयत्।।177।।
बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वच:।
कुम्भाण्ड वध्यतां शीघ्रमयं वै कुलपांसन:।।178।।
चारित्रं येन मे लोके दूषितं दूषितात्मना।
इत्ये्वमुक्ते वचने कुम्भाण्डो वाक्यमब्रवीत्।।179।।
राजन् वक्ष्याम्यहं किंचित्तन्मेज श्रृणु यदिच्छसि।
अयं विज्ञायतां कस्य कुतो वायमिहागत:।।180।।
केन वायमिहानीत: शक्रतुल्यपराक्रम:।