घर्मान्ते तोयदो व्योम्नि नदन्निव महास्वन:।
तिष्ठध्वमिति चुक्रोश दानवान् युद्धदुर्मदान्।।106।।
प्राद्युम्निर्व्येहनच्चापि सर्वांछत्रुनिबर्हण:।
तेन ते समरे सर्वे हन्यमाना महात्मना।।107।।
यतो बाणस्ततो भीता ययुर्युद्धपरांमुखा:।
ततो बाणसमीपस्था: श्वसन्तो रुधिरोक्षिता:।।108।।
न शर्म लेभिरे दैत्या भयविक्लंवचेतस:।
मा भैष्टे मा भैष्ट इत राज्ञा ते तेन चोदिता:।।109।।
त्रासमुत्सृज्य चैकस्था युध्यध्वं दानवर्षभा:।
तानुवाच पुनर्बाणो भयविक्लवलोचनान्।।110।।