तव योगप्रभावेण शक्यं तत्र प्रवेशनम्।
बहुना किं प्रलापेन प्रतिज्ञा श्रूयतां मम।।86।।
अनिरुद्धस्य् वदनं पूर्णचन्द्रमसमप्रभम्।
यद्यहं तन्न् पश्यापमि यास्यामि यमसादनम्।।87।।
दूतमासाद्य कार्याणां सिद्धिर्भवति भामिनि।
तस्मासद् दौत्येन मे गच्छभ जीवन्तीं मां यदीच्छसि।।88।।
यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम्।
क्षिप्रमानय मे कान्तं तवास्मि शरणं गता ।।89।।
जीवितस्या हि संदेहं क्षयं चैव कुलस्यग च ।
कामार्ता हि न पश्यन्ति कामिन्यो मदविक्लवा:।।90।।