तत: सखीभिर्हास्यन्ती हर्षेणोत्फुपल्ल्लोचना।
तालिकासंनिपातैश्च ह्यन्योन्यं जघ्नुरूर्जिता:।।21।।
किन्नार्यो यक्षकन्या्श्च नानादैतेयकन्यका:।
अप्सरोगणकन्याकश्चा उषाया: सखितां गता:।।22।।
उक्ता च तत्र ताभिश्च भर्ता तव वरानने।
भविष्यत्यचिरेणैव देव्या वचनकल्पित:।।23।।
न हि देव्या वचो मिथ्याण भविष्यति कदाचन।
रूपाभिजनसम्पन्न: पतिस्ते कल्पितस्तया।।24।।
उषा सखीनां तद् वाक्यं प्रतिपूज्य यथाविधि।
दत्तं मनोरथं देव्याय भावयन्ती व्यवस्थिता।।25।।