तारायां कपिलो जज्ञे पौण्ड्रश्चं सुतनो: सुत:।
तयोर्नृपोऽभवत् पौण्ड्र: कपिलश्च वनं ययौ।।26।।
तुर्यां समभवद् वीरो वसुदेवान्महाबल:।
जरा नाम निषादानां प्रभु: सर्वधनुष्मसताम्।।27।।
काश्या सुपार्श्वं तनयं लेभे साम्बात् तरस्विनम्।
सानुर्जज्ञेऽनिरुद्धस्य् वज्र: सानोरजायत।।28।।
वज्राज्जज्ञे प्रतिरथ: सुचारुस्तस्य चात्मज:।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात्।।29।।
शिनेस्तु सत्यवाग् जज्ञे सत्यकश्च महारथ:।
सत्यकस्यात्मज: शूरो युयुधानस्वजायत।।30।।
असंगो युयुधानस्य मणिस्त स्याणभवत् सुत:।
मणेर्युगन्धार: पुत्र इति वंश: समाप्यते।।31।।
इति श्री महाभारते खिलभागे हरिवंशे विष्णुपर्वणि वृष्णिवंशानुकीर्तने त्र्यधिकशततमोऽध्याय:।