पुण्डरीकश्तैर्जुष्टं विमानैश्च हिरण्मयै:।
विहिता वासुदवार्थं रत्नषपुष्पफलद्रुमा:।।66।।
पद्मखण्डाजलोपेता रत्नहसौगन्धिकोत्पला:।
मणिहेमप्लवाकीर्णा: पुष्करण्य: सरांसि च।।67।।
तासां परमकूलानि शोभयन्ति महाद्रुमा:।
शालास्ताला: कदम्बाश्चर शतशाखाश्च रौहिणा:।।68।।
ये च हैमवता वृक्षा ये च मेरुरुहास्तथा।
आहृत्य यदुसिंहार्थं विहिता विश्वकर्मणा।।69।।
रक्तपीतारुणश्यामा: श्वेतपुष्पाश्च पादपा:।
सर्वर्तुफलसम्पीन्नांस्तेषु काननसन्धिषु।।70।।