अवध्यास्ते तु देवानां ब्रह्मणो वरदर्पिता:।
देवपुत्रैर्हि हन्तव्या: प्रद्युम्नप्रमुखैर्युधि।।41।।
नटो दत्तिवरस्तस्य वेषमास्थाय यादवा:।
प्रद्युम्नाद्या गमिष्यन्ति व्रजनाभविनाशना:।।52।।
एतच्चय सर्वं कर्तव्यमन्यच्चा सर्वमेव हि।
प्राप्तकालं विधातव्यदमस्माकं प्रियकाम्यया।।53।।
प्रवेशस्तत्र देवानां नास्ति हंसा: कथंचन।
वज्रनाभेप्सिते तत्र प्रदेशे खलु सर्वथा।।54।।
इति श्री महाभारते खिलभागे हरिवंशे विष्णुसपर्वणि वज्रनाभवधे एकनवतितमोऽध्याय:।