पलायित्वा गृहं गत्वा कस्य द्रक्ष्यथ हे मुखम्।
दारान् वक्ष्यथ किं चापि धिग्धिक् किं किं न लज्जथ।।6।।
एवमुक्ता निवृत्तास्ते लज्जमाना नृपासुरा:।
द्विगुणेन च वेगेन युयुधुर्यदुभि: सह ।।7।।
उत्सवे युद्धशौण्डानां नानाप्रहरणैर्नृप।
ये यान्ति यज्ञवाटं तं तान्हन्ति धनंजय:।।8।।
यमौ भीमश्च राजा च धर्मपुत्रो युधिष्ठिर:।
द्यां प्रयातांञ्जघानैन्द्रि: प्रवरश्च द्विजोत्तम:।।9।।
अथासुरासृक्तोयाढ्या केशशैवलशाद्वला।
चक्रकूर्मरथावर्ता गजशैलानुशोभिनी।।10।।