तत: स भगदत्तं च शिशुपालं च भूमिप।
आह्वृतिं चैवं रुक्मिं च शेषांश्चांन्याचन् नराधिपान्।।61।।
बबन्ध हरदत्तैस्तै: पाशैरुत्तमवीर्यधृक्।
मायामयीं गुहां चैवमानयत् कुरुनन्दन।।62।।
बद्ध्वां च रौक्मिणेयोऽथ नि:श्वदसन्त इवोरगान्।
अनिरुद्धं चकाराथ रक्षितारं स्वमात्मजम्।।63।।
तेषां निरवशेषेण बबन्ध यदुनन्दन:।
सेनापतीन् क्षत्रियांश्च कोशाध्यक्षांश्च भारत।।64।।
हस्यश्वरथवृन्दांश्च चकार च तथाऽऽत्मरसात्।
अव्यग्रस्तु ततो हन्तुमसुरानुद्यत: प्रभो।।65।।