सततं स्त्री् द्वितीयायां भ्रुवोरिच्छेोत्सुरूपताम्।।11।।
अनन्तसरोपवासेन शाकभक्ताशना सती।
तत: संवत्सरे पूर्णे ब्राह्मणं स्वस्ति वाचयेत्।।12।।
फलै: परिणतै: सौम्यैर्माषाणां दक्षिणान्वितै:।
लवणेन च भद्रं ते घृतपात्रेण चानघे।।13।।
आत्मन: शोभनौ कर्णाविच्छती स्त्री सुमध्यमा।
नक्षत्रे श्रवणे प्राप्ते ध्रुवं भुंजीत यावकम्।।14।।
तत: संवत्सतरे पूर्णे कर्णौ दद्याद्धिरण्मयौ।
घृते प्रक्षिप्य विप्राय पयसा सहिते शुभे।।15।।