उक्ततश्च वृक्ष मा भैस्त्वं केशवेन महात्मना।।11।।
तं प्रस्थितं तरुं दृष्ट्वा पारिजातमधोक्षज:।
अमरावतीं पुरीं श्रेष्ठां ततश्चक्रे प्रदक्षिणाम्।।12।।
ते तु नन्दनगोप्तार: पारिजातो द्रुमोत्तम:।
ह्रियतीति महेन्द्राय गत्वा् नृप शशंसिरे।।13।।
अथैरावतमारुह्य निर्ययौ पाकशासन:।
जयन्तेन रथस्थेन पृष्ठपतोऽनुगत: प्रभु:।।14।।
पूर्वमभ्यागतं द्वारं केशवं शत्रुनाशनम्।
दृष्ट्वोवाच प्रवृत्तं भो: किमिदं मधुसूदन।।15।।