देवर्षिभिर्मुनिश्रेष्ठै: संवृत: सर्वभावन: ।
कल्पान्तरसहस्त्रेषु क्षयो येषां न विद्यते ।।6।।।
यानर्चयन्ति सततं देवा देवेश्वरोपमा: ।
आत्मज्ञा नावलेपान्धा ये च धर्मपथि स्थिता: ।।7।।
रुद्राश्च काश्यपा देवमध्युपासन्त भारत ।
स्कन्दश्च भगवानग्निर्गंगा च सरितां वरा ।। 8।।
अर्चिष्मांस्तुम्बुरुश्चैव भारिश्च वदतां वर: ।
नेतारो देवदेवानामेते हि तपसान्विता: ।। 9।।
एताननुविधीयन्ते सर्वदेवगणा नृप ।
धर्मनित्यास्तपोनित्या: सतां मार्गमुपाश्रिता: ।।10।।