मया तदनृतं कर्तुं कथं शक्यं तपोधन।
नानृतं हि वचो विप्र प्रोक्तं पूर्वं मयानघ।।36।।
मयि भग्नप्रतिज्ञे वै लोकानां विप्लवो भवेत्।
यन्मया हि मुनिश्रेष्ठ लोकधर्मा गुणान्विता:।
परिधार्या: स्थितौ सर्वे स कथं ह्यनृतं वदेत्।।37।।
न देवगन्धंर्वगणा न राक्षसा न चासुरा नैव च यक्षपन्नवगा:।
मम प्रतिज्ञामपहन्तु मुद्यता मुने समर्था: खल भद्रमस्तु। ते।।38।।
स पारिजातं यदि न प्रदास्यति प्रयाच्यमानो भवतामरेश्वर:।
तत: शचीव्यामृदितानुलेपने गदां विमोक्ष्यामि पुरंदरोरसि।।39।।
इति प्रवाच्यो यदि सामपूर्वकं प्रयाच्यमानो न तरुं प्रयच्छंति।
सुनिश्चयं मद्गमनाय सर्वथा त्वयापि कार्य: खलु तत्र निश्चय:।।40।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदकृष्णभाषणे अष्टशषष्टितमोऽध्याय:।