कुमारा: प्रययुस्तत्र पुत्रभ्रातर एव च।
प्रेषिता वासुदेवेन नारदस्याभ्यनुज्ञया।।6।।
षोडश स्त्रीसहस्त्राणि जग्मुरेव च धीमत:।
ऋद्धया परमया राजन् विष्णोरेवानुरूपया।।7।।
ततस्तत्र द्विजातीनां कामान प्रादादधोक्षज:।
अर्थिनां धर्मनित्यानां बन्दिनामिष्टवादिनाम्।।8।।
कल्याणनामगोत्राणां महतां पुण्यकर्मणाम्।
यौनै: श्रौतैश्च माखैश्च शुद्धानां कुरुनन्दन।।9।।
तर्पयित्वा द्विजान् कामैरिष्टैरिष्ट: सतां गति:।
ज्ञातीन् संतर्पयामास यथार्हे भक्तवत्सल:।।10।।