सत्कृतोऽहं त्वया कृष्ण लोकैश्च सचराचरै:।
त्वया सत्कृतरूपेण येन सत्कृतवानहम्।।46।।
साध्यामि महाबाहो भवत: कार्यसिद्धये।
स्मर्तव्यश्चास्मि युद्धेषु कान्तारेषु महीक्षिताम्।।47।।
इत्युकत्वा जामदग्न्यस्तु कृष्णमक्लिष्टकारिणम्।
जयाशिषा वर्द्धयित्वा जगामाभीप्सितां दिशम्।।48।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोमन्तारोहणं नाम चत्वा्रिंशोऽध्याय:।