उभे कंसस्य ते भार्ये प्रादाद् बार्हद्रथो नृप:।।6।।
स ताभ्यां मुमुदे राजा बद्ध्वा पितरमाहुकम्।
समाश्रित्य जरासंधमनादृत्य च यादवान्।
शूरसेनेश्वरो राजा यथा ते बहुश: श्रुत:।।7।।
ज्ञातिकार्यार्थसिद्ध्यर्थमुग्रसेनहिते रत:।
वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम्।।8।।
रामकृष्णौ समाश्रित्य हते कंसे दुरात्मनि।
उग्रसेनोऽभवद् राजा भोजवृष्णयन्धकैर्वृत:।।9।।
दुहितृभ्यां जरासंध: प्रियाभ्यां बलवान् नृप:।
नोदितो वीरपत्नीभ्यामुपायान्मथुरां तत:।।10।।