एष मानुष्यको यत्नो मानुषैरेव साध्यते ।
श्रूयतां येन दैवं हि मद्विधै: प्रतिहन्यते ।।6।।
मन्त्रग्रामै: सुविहितैरौषधैश्च सुयोजितै: ।
यत्नेन चानुकूलेन दैवमप्यनुलोम्यते ।।7।।
वैशम्पायन उवाच
एवं स यत्नवान् कंसो देवकीगर्भकृन्तने।
भयेन मन्त्रयामास श्रुतार्थो नारदात् स वै ।।8।।
एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम्।
अन्तर्धानं गतो विष्णुश्चिन्तयामास वीर्यवान् ।।9।।
सप्तेमान् देवकीगर्भान् भेजपुत्रो वधिष्यति।
अष्टमे च मया गर्भे कार्यमाधानमात्मन:।।10।।