क्षणेन भस्मसान्नीतो युगान्तप्रतिमेन वै।
तस्य पुत्रश्च दाराश्च भृत्याश्चान्ये महोरगा:।।11।।
वमन्त: पावकं घोरं वक्त्रेभ्यो विषसम्भवम्।
सधूमं पन्नगेन्द्रास्ते निपेतुरमितौजस:।।12।।
प्रवेशितश्च तै: सर्पै: स कृष्णो भोगबन्धनम्।
निर्यत्नचरणाकारस्तस्थौ गिरिरवाचल:।।13।।
अदशन् दशनैस्तीक्ष्णैर्विषोत्पीडजलाविलै:।
ते कृष्णं सर्पपतयो न ममार च वीर्यवान्।।14।।
एतस्मिन्नतरे भीता गोपाला: सर्व एव ते।
क्रन्दमाना व्रजं जग्मुर्वाष्पगद्गदया गिर ।।15।।