ततस्ते प्रद्रुता यान्ति तमेव वरुणालयम्।
षष्टिं रथसहस्राणि षष्टिं रथशतानि च।।56।।
वारुणानि च युद्धानि दीप्तिशस्त्राणि संयुगे।
तद् बलं बलिभि: शूरैर्बलदेवजनार्दनै:।।57।।
प्रद्युम्नेनानिरुद्धेन गरुडेन च सर्वश:।
शरौघैर्विविधैस्तीक्ष्णैर्वध्य:मानं समन्तत:।।58।।
ततो भग्नं बलं दृष्ट्वा कृष्णेनाक्लिष्टमकर्मणा।
वरुणस्त्वथ संक्रुद्धो निर्ययौ यत्र केशव:।।59।।
ऋषिभिर्देवगन्धवैस्तवथैवाप्सरसां गणै:।
संस्तूयमानो बहुधा वरुण: प्रत्यदृश्यत।।60।।