दृष्ट: स्पृष्टश्च कृष्णेन सोऽनिरुद्धो महायशा:।
स्थित: प्रीतमना भूत्वा प्रांञ्जलिर्वाक्यमब्रवीत्।।11।।
अनिरुद्ध उवाच
देवदेव सदा युद्धे जेता त्वमसि केशव।
न शक्त: प्रमुखे स्थातुं साक्षादपि शतक्रतु:।।12।।
ततो महाबलं देवं बलभद्रं यशस्विनम्।
अभिवादयते हृष्ट : सोऽनिरुद्धो महामना:।।13।।
माधवं च महात्मानमभिवाद्य कृतांञ्जलि:।
खगोत्तमं महावीर्यं सुपर्णमभिवाद्य च।।14।।
ततो मकरकेतुं च चित्रबाणधरं प्रभुम्।
पितरं सोऽभ्युपागम्य् प्रद्युम्नमभिवादयत्।।15।।