ततस्तूर्यप्रणादैश्च भेरीणां तु महास्वनै:।
सिंहनादैश्च दैत्यानां बाण: कृष्णिमभिद्रवत्।।36।।
दृष्ट्वा बाणं तु निर्यातं युद्धायैव व्यवस्थितम्।
आरुह्य गरुडं कृष्णो बाणायभिमुखो ययौ।।37।।
आयान्तमथ तं दृष्ट्वा यदूनामृषभं रणे।
वैनतेयमथारूढं कृष्णमप्रतिमौजसम्।।38।।
अथ बाणस्तु तं दृष्ट्वा प्रमुखे प्रत्युपस्थितम्।
उवाच वचंन क्रुद्धो वासुदेवं तरस्विनम्।।39।।
बाण उवाच
तिष्ठ तिष्ठ न मेऽद्य त्वं जीवन् प्रतिगमिष्यंसि।
द्वारकां द्वारकास्थांश्च सुहृदो द्रक्ष्यसे न च।।40।।