तमप्रतिकर्माणं समानं सूर्यवर्चसा।।126।।
चक्रमुद्यम्य समरे कोपदीप्तो गदाधर:।
स मुष्णन् दानवं तेज: समरे स्वेन तेजसा।।127।।
चिच्छेद बाहूंश्चक्रेण श्रीधर: परमौजसा।
अलातचक्रवत् तूर्णं भ्राम्यमाणं रणाजिरे।।128।।
क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्द्धनि।
विष्णुचक्रं भ्रमत्याशु शैघ्रयाद् रूपं न द्रश्यते।।129।।
तस्य बाहुसहस्रस्य पर्यायेण पुन: पुन:।
बाणस्य च्छेदनं चक्रे तच्चक्रं रणमूर्द्धनि।।130