वैशम्पायन उवाच
जपैश्च मन्त्रैश्च तथौषधीभिर्महात्मन: स्वस्त्ययनं प्रचक्रु:।
स तत्र वस्त्राणि शुभाश्च गाव: फलानि पुष्पाणि तथैव निष्कावन्।।51।।
बले: सुतो ब्रह्मणेभ्य्: प्रयच्छन विराजते तेन यथा धनेश:।
सहस्रसूर्यो बहुकिंकिणीक: परार्घ्यजाम्बूनदरत्नचित्र:।।52।।
सहस्रचन्द्रायुततारकश्च रथो महानग्निरिवावभाति।
तमास्थितो दानवसंग्रहीतं महाध्वजं कार्मुकधृक्स बाण:।।53।।
उद्वर्तयिष्यन यदुपुंगवानामतीव रौद्रं स बिभर्ति रूपम्।
स मन्युमान् वीररथौघसंकुलो विनिर्ययौ तान प्रति दैत्यसागर:।।54।।
वातप्रवृद्धस्तु तरंगसंकुलो यथार्णवो लोकविनाशनाय।
भीमानि संत्रासकरैर्वपुर्भिस्तान्यग्रतो भान्ति बलानि तस्य ।।55।।
महारथान्युच्छ्रितकार्मुकाणि सपर्वतानीव वनानि राजन्।
विनि:सृत: सागरतोयवासादत्यद्भुतश्चाबहवद्रष्टुकाम:।।56।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुद्रकृष्णयुद्धे चतुर्विंशत्यधिकशततमोऽध्याय:।