दिशश्च प्रदिशश्चैव भूमिराकाशमेव च।।31।।
प्रदीप्तानीव दृश्यन्ते स्थाणुकृष्णसमागमे।
समन्ततश्च निर्घाता: पतन्ति धरणीतले।।32।।
शिवाश्चैवाशिवान नादान् नदन्ते भीमदर्शना:।
वासवश्चानदन् घोरं रुधिरं चाप्यवर्षत।।33।।
उल्का् च बाणसैन्यस्य पुच्छेनावृत्य तिष्ठति।
प्रववौ मारुतश्चापि ज्योतींष्याकुलतां ययु:।।34।।
प्रभाहीनास्तथौषध्यो न चरन्त्यन्तरिक्षगा:।
एतस्मिन्नसन्तरे ब्रह्मा सर्वदेवगणैर्वृत:।।35।।
त्रिपुरान्तकमुद्यन्त ज्ञात्वा रुद्रमुपागतम्।