त्रिपाद् भस्महरणस्त्रिशिरा नवलोचन:।
स मे प्रीत: सुखं दद्यात् सर्वामयपतिर्ज्वर:।।36।।
आद्यन्तवन्त: कवय: पुराणा: सूक्ष्मा: बृहन्तो्ऽप्यनुशासितार:।
सर्वांज्वतरान् घ्नन्तु ममानिरुद्धप्रद्युम्नासंकर्षणवासुदेवा:।।37।।
वैशम्पायन उवाच
एवमुक्तस्तु कृष्णेन ज्वर: साक्षान्महात्मना।
प्रोवाच यदुशार्दूलमेवमेतद् भविष्यति।।38।।
वरं लब्ध्वा ज्वरो हृष्ट्: कृष्णाच्च समयं पुन:।
प्रणम्य शिरसा कृष्णामपक्रान्तस्ततो रणात्।।39।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुकपर्वणि ज्वरकृष्णसंवादे त्रयोविंशत्याधिकशततमोऽध्याय:।