अपां तु नीलिकां विद्याच्छिखोद्भेदेन बर्हिणाम्।
पद्मिन्यादौ हिमो भूत्वा पृथिव्या मपि चोषर:।।26।।
गैरिक: पर्वतेष्वेव मत्प्रसादाद् भविष्यसि।
गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि।।27।।
एवं त्वं बहुरूपेण भविष्यसि महीतले।
दर्शना स्पर्शनाच्चापि प्राणिनां वधमेष्यसि।।28।।
ऋते देवमनुष्याणां नान्यशस्वां विसहिष्यति।
वैशम्पायन उवाच
कृष्णस्य वचनं श्रुत्वा ज्वरो हृष्टमना ह्यभूत्।।29।।
प्रोवाच वचनं किंचित् प्रणमित्वा कृतांजलि:।
ज्वर उवाच
सर्वजातिप्रभुत्वेन कृतो धन्योतऽस्मि माधव।।30।।