आविध्यमाने तस्मिंस्तु कृष्णेनामितेजसा।
अशरीरा ततो वाणी ह्यन्तरिक्षादभाषत।।11।।
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन।
मा वधीर्ज्वरमेनं तु रक्षणीयस्व्त्यानघ।।12।।
इत्येवमुक्ते वचने तं मुमोच हरि: स्वयम्।
भूतभव्यभविष्यस्य जगत: परमो गुरु:।।13।।
कृष्णस्य पादयोर्मूर्ध्ना शरणं सोऽगमज्जर:।
एवं मुक्तो् हृषीकेशं ज्वरो वाक्यमथाब्रवीत्।।14।।
श्रृणुष्व मम गोविन्द विज्ञाप्यं यदुनन्दन।
यो मे मनोरथो देव तं त्वं कुरु महाभुज।।15।।