तत: संकर्षणो देवमुवाच मधुसूदनम
कृष्ण कृष्ण महाबाहो यदेतद् दृश्यते बलम्।
एतै: सहरणे योद्धुमिच्छामि पुरुषोत्तम।।61।।
श्रीकृष्ण उवाच
ममाप्येषैव संजाता बुद्धिरित्यब्रवीच्च तम्।
एभि: सह रणे योद्धुमिच्छेयं योधसत्तमै:।।62।।
युद्ध्यत: प्रांमुखस्यास्तु सुपर्णो वै ममाग्रत:।
सव्यपार्श्वे तु प्रद्युम्नस्तथा मे दक्षिणे भवान्।
रक्षितव्यमथान्योन्यमस्मिन् घोरे महामृधे।।63।।
वैशम्पायन उवाच
एवं ब्रुवन्तस्तेऽन्योन्यमधिरूढा: खगोत्तमम्।
गिरिश्रृंगनिभैर्घोरैर्गदामुसललांगलै:।।64।।
युध्यतो रौहिणेयस्य रौद्रं रूपमभूत् तदा।
युगान्ते सर्वभूतानां कालस्येव दिधक्षत:।।65।।