भवन्तमाश्रिता: कृष्ण संविभक्ताश्च् सर्वश:।
तथैव बलवाञ्शक्रस्त्वय्यावेश्य जयाजयौ।।21।।
सुखं स्वपिति नि:शंक: कथं त्वं चिन्तयान्वित:।
शोकसागरमक्षोभ्यं सर्वे ते ज्ञातयो गता:।।22।।
तान् मज्जयमानानेकस्त्वं समुद्धर महाभुज।
किमेवं चिन्तभयाविष्टो् न किंचिदपि भाषसे।।23।।
चिन्तां कर्तुं वृथा देव न त्वमर्हसि माधव।
इत्येवमुक्त: कृष्णस्तु नि:श्वस्य: सुचिरं बहु।।24।।
प्राह वाक्यं स वाक्यज्ञो बृहस्पतिरिव स्वयम्।
श्रीकृष्ण उवाच
विपृथो चिन्तयाविष्टो ह्येतत्कार्यमचिन्तयम्।।25।।
विचिन्तयंस्वहं चास्य कार्यस्यन लभे गतिम्।