संविधानमथाज्ञाप्य द्वारकायां महाबल:।
गमनाय मतिं चक्रे वासुदेव: प्रतापवान्।।141।।
आस्थितो गरुडं देवस्तस्य चानु हलायुध:।
पृष्ठततोऽनु बलस्यापि प्रद्युम्नह: शत्रुकर्षण:।।142।।
जय बाणं महाबाहो ये चास्यासनुगता रणे।
न हि ते प्रमुखे स्थायतुं कश्चिच्छाक्तो महामृधे।।143।।
प्रसादे ते ध्रुवा लक्ष्मीसर्विजयश्च पराक्रमे।
विजेष्यसि रणे शत्रुं दैत्येन्द्रं सहसैनिकम्।।144।।
सिद्धचारणसंघानां महर्षीणां च सर्वश:।
श्रृण्वरन् वाचोऽन्तरिक्षे वै प्रययौ केशवो रणे।।145।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुतपर्वणि कृष्ण प्रयाणे एकविंशत्यहधिकशततमोऽध्याय:।