तासामरालपक्ष्मांणि राजयन्ति शुभानि च।
रुधिरेणाप्लु्तानीव नयनानि चकाशिरे।।11।।
तासां हर्मय्तलस्था नां पूर्ण आसीन्महास्वन:।
कुररीणामिवाकाशे रुदतीनां सस्त्राश:।।12।।
ते श्रुत्वा निनदं घोरमपूर्वं भयमागतम्।
उत्पेरतु: सहसा स्वेयभ्यो गृहेभ्य: पुरुषर्षभा:।।13।।
कस्मादेषोऽनिरुद्धस्य श्रूयते सुमहास्वन:।
गृहे कृष्णाभिगुप्तानां कुतो नो भयमागतम्।।14।।
इत्येकवमूचुस्ते्न्योन्यं स्नेगहविक्ल वगद्गदा:।
अधर्षिता यथा सिंहा गुहाभ्य इव नि:सृता:।।15।।