कस्य् शंखरवै: प्राणान् मोहयिष्यसि माधव।
कोऽयं सपरिवारोऽद्य यास्यते यमसादनम्।।101।।
एवमुक्ते वचने वैनतेयेन धीमता।
वासुदेवो वच: प्राह श्रृणु त्वं वदतां वर।।102।।
बले: पुत्रेण बाणेन प्राद्युम्निरपराजित:।
उषाया: कारणे बद्धो नगरे शोणिताह्वये।
अनिरुद्धस्तु कामार्तो बद्धो नागैर्विषोल्बणै:।।103।।
तस्य मोक्षार्थमाहूतो मया त्वं पतगेश्वर।
तव वेगसमो नास्ति पक्षिणां प्रवरो भवान्।
अशक्यं च तदध्वानं गन्तुमन्येन काश्यप।।104।।
तत्र प्रापय मां शीघ्रं यत्र प्राद्युम्निरावसत्।
वैदर्भी ते स्नुषा वीर रुदती पुत्रगृद्धिनी।।105।।
त्वुत्प्रनसादाद् भवत्येषा पुत्रेण सह भामिनी।