कालरात्रिं कामगमां त्रिनेत्रां ब्रह्मचारिणीम्।
सौदामिनीं मेघरवां वेतालीं विपुलाननाम्।।11।।
यूथस्याद्यां महाभागां शकुनीं रेवतीं तथा।
तिथीनां पंचमीं षष्ठीं पूर्णमासीं चतुर्दशीम्।।12।।
सप्तनविशतिऋक्षाणि नद्य: सर्वा दशो दश।
नगरोपवनोद्यानद्वाराट्टालकवासिनीम्।।13।।
ह्रीं श्रीं गंगां च गन्धर्वां योगिनीं योगदां सताम्।
कीर्तिमाशां दिशं स्पर्शां नमस्यामि सरस्वतीम्।।14।।
वेदानां मातरं चैव सावित्रीं भक्तावत्सलाम्।
तपस्विनीं शान्तिकरीमेकानंशां सनातनीम्।।15।।