चचार रुचिरं कृष्णो यमुनामुपशोभयन् ।
तां चरन् स नदीं श्रेष्ठां ददर्श ह्रदमुत्तमम्।।41।।
दीर्घं योजन विस्तारं दुस्तरं त्रिदशैरपि।
गम्भरमक्षोभ्यजलं निष्कम्पमिव सागरम्।।42।।
तोयजै: श्वापदैस्त्यक्तं शून्यं तोयचरै: खगै:।
अगाधेनाम्भसा पूर्णं मेघपूर्णमिवाम्बरम्।।43।।
दु:खोपसर्प्यं तीरेषु ससर्पैर्विपुलैर्बिलै:।
विषारणिभवस्याग्नेर्धूमेन परिवेष्टितम्।।44।।
अभोग्यं तत् पशूनां हि अपेयं च जलार्थिनाम्।
उपभोगै: परित्यक्तं सुरैस्त्रिषवणार्थिभि:।।45।।