उषायां धर्षितायां हि कुलं नो धर्षितं महत्।
असम्प्रदत्तांक योऽस्माभि: स्वरयंग्राहमधर्षयत्।।81।।
अहो वीर्यमहो धैर्यमहो धार्ष्ट्यं च दुर्मते:।
य: पुरं भवनं चेदं प्रविष्टो न: स बालिश:।।82।।
एवमुक्वा पुनस्तांस्तु किंकरांश्चोदयद् भृशम्।
ते तस्याज्ञामथो गृह्य सुसंनद्धा विनिर्ययु:।। 83।।
यत्रानिरुद्धो ह्यभवत् तत्रागच्छन् महाबला:।।84।।
नानाशस्त्रोद्यतकरा नानारूपा भयंकरा:।
दानवा: समभिक्रुद्धा: प्राद्युम्निवधकांक्षिण:।।85।।